च॒रुर्न यस्तमी᳚ङ्ख॒येन्दो॒ न दान᳚मीङ्खय ।
व॒धैर्व᳚धस्नवीङ्खय ॥
व॒धैर्व᳚धस्नवीङ्खय ॥
पदपाठः (Word-by-word)
च॒रुः । न । यः । तम् । ई॒ङ्ख॒य॒ । इन्दो॒ इति᳚ । न । दान᳚म् । ई॒ङ्ख॒य॒ ।
व॒धैः । व॒ध॒स्नो॒ इति᳚ वध॑स्नो । ई॒ङ्ख॒य॒ ॥
व॒धैः । व॒ध॒स्नो॒ इति᳚ वध॑स्नो । ई॒ङ्ख॒य॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे सोमचरुर्न चरुरिव यः पूर्णोदनो भवति तमींखयास्मान्प्रापय । अपिच हे इन्दो न इदानीं दानं देयमींखय हे वधस्नो प्रहारेण प्रस्रवणशील सोम वधैर्ग्राण्वां प्रहारैरींखय ॥ ३ ॥