नि शुष्म᳚मिन्दवेषां॒ पुरु᳚हूत॒ जना᳚नाम् ।
यो अ॒स्मा{4} आ॒दिदे᳚शति ॥
यो अ॒स्मा{4} आ॒दिदे᳚शति ॥
पदपाठः (Word-by-word)
नि । शुष्म᳚म् । इ॒न्दो॒ इति᳚ । ए॒षा॒म् । पुरु᳚॑हूत । जना᳚नाम् ।
यः । अ॒स्मान् । आ॒॑दिदे᳚शति ॥
यः । अ॒स्मान् । आ॒॑दिदे᳚शति ॥
सायणभाष्यम् (Sayana Commentary)
मदच्युतं मदस्य च्यावयितारं हरिं हरितवर्णं वाजिनं बलिनं मत्सरं मदकरं तमिन्दुं सोमं नदीषु वसतीवरीष्विन्द्रायेन्द्रार्थं हिन्वन्ति ऋत्विजः प्रेरयन्ति ॥ ४ ॥
अस्यप्रत्नामिति चतुरृचं त्रिंशं सूक्तं ऋष्याद्याःपूर्ववत् । अस्यप्रत्नामित्यनुक्रान्तम् । उक्तोवि- नियोगः ।