प्र गा᳚य॒त्रेण᳚ गायत॒ पव᳚मानं॒ विच᳚र्षणिम् ।
इन्दुं᳚ स॒हस्र᳚चक्षसम् ॥
इन्दुं᳚ स॒हस्र᳚चक्षसम् ॥
पदपाठः (Word-by-word)
प्र । गा॒य॒त्रेण᳚ । गा॒य॒त॒ । पव᳚मानम् । वि॑च᳚र्षणिम् ।
इन्दु᳚म् । स॒हस्र᳚॑चक्षसम् ॥
इन्दु᳚म् । स॒हस्र᳚॑चक्षसम् ॥
सायणभाष्यम् (Sayana Commentary)
विचर्षणिं विद्रष्टारं सहस्रचक्षसं बहुदर्शनं पवमानं पूयमानमिन्दुं सोमं गायत्रेण गायत्रना- मधेयेन साम्ना प्रगायत । हे स्तोतारो गानं कुरुत स्तुतेत्यर्थः ॥ १ ॥