श्रवणम्

9.60.2
तं त्वा᳚ स॒हस्र᳚चक्षस॒मथो᳚ स॒हस्र᳚भर्णसम् ।
अति॒ वार᳚मपाविषुः ॥
▶ पदपाठः (Word-by-word)
त्वम् । त्वा॒ । स॒हस्र᳚॑चक्षसम् । अथो॒ इति᳚ । स॒हस्र᳚॑भर्णसम् ।
अति᳚ । वार᳚म् । अ॒पा॒वि॒षुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम सहस्रचक्षसं बहुदर्शनं अथो अपिच सहस्रभर्णसं बहुभरणं तमभिषुतं त्वा त्वां वारं वालं दशापवित्रं अत्यपाविषुरृत्विजः पावयन्ति ॥ २ ॥