अति॒ वारा॒न्पव᳚मानो असिष्यदत्क॒लशा{4}᳚ अ॒भि धा᳚वति ।
इन्द्र᳚स्य॒ हार्द्या᳚वि॒शन् ॥
इन्द्र᳚स्य॒ हार्द्या᳚वि॒शन् ॥
पदपाठः (Word-by-word)
अति᳚ । वारा᳚न् । पव᳚मानः । अ॒सि॒स्य॒द॒त् । क॒लशा᳚न् । अ॒भि । धा॒व॒ति॒ ।
इन्द्र᳚स्य । हार्दि᳚ । आ॒॑वि॒शन् ॥
इन्द्र᳚स्य । हार्दि᳚ । आ॒॑वि॒शन् ॥
सायणभाष्यम् (Sayana Commentary)
पवमानः पूयमानः सोमो वारान् अवेः वालानत्यतिक्रम्यासिष्यदत्स्यंदते । अपिचेन्द्रस्य हार्दि हृदयमाविशन् द्रोणानभिधावत्यभिगच्छति ॥ ३ ॥