श्रवणम्

9.60.4
इन्द्र᳚स्य सोम॒ राध᳚से॒ शं प᳚वस्व विचर्षणे ।
प्र॒जाव॒द्रेत॒ आ भ᳚र ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚स्य । सो॒म॒ । राध᳚से । शम् । प॒व॒स्व॒ । वि॒॑च॒र्ष॒णे॒ ।
प्र॒जा॑व᳚त् । रेतः᳚ । आ । भ॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विचर्षणे विद्रष्टः सोम त्वमिन्द्रस्य राधसे राधनाय संसिध्यै शं सुखकरं रसं पवस्व क्षर । अपिचास्मभ्यं प्रजावत्पुत्राद्युपेतं रेतउदकमन्नं वा आभराहर प्रयच्छेत्यर्थः ॥ ४ ॥

तृतीयेनुवाके सप्त सूक्तानि तत्रायावीतीति त्रींशदृचं प्रथमं सूक्तममहीयुर्नामांगिरसऋषिः गायत्रीछन्दः पवमानःसोमो देवता । तथाचानुक्रान्तं—अयावीतीत्रिंशदमहीयुरिति । उक्तो- विनियोगः ।