श्रवणम्

9.83.1
प॒वित्रं᳚ ते॒ वित᳚तं ब्रह्मणस्पते प्र॒भुर्गात्रा᳚णि॒ पर्ये᳚षि वि॒श्वतः᳚ ।
अत᳚प्ततनू॒र्न तदा॒मो अ᳚श्नुते शृ॒तास॒ इद्वह᳚न्त॒स्तत्समा᳚शत ॥
▶ पदपाठः (Word-by-word)
प॒वित्र᳚म् । ते॒ । वि॑त᳚तम् । ब्र॒ह्म॒णः॒ । प॒ते॒ । प्र॒॑भुः । गात्रा᳚णि । परि᳚ । ए॒षि॒ । वि॒श्वतः᳚ ।
अत᳚प्त॑तनूः । न । तत् । आ॒मः । अ॒श्नु॒ते॒ । शृ॒तासः᳚ । इत् । वह᳚न्तः । तत् । सम् । आ॒श॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ब्रह्मणस्पते मंत्रस्यस्वामिन् सोम ते पवित्रं शोधकं अंगं विततं सर्वत्र विस्तृतं सप्रभुः प्रभविता त्वं गात्राणि पातुरंगानि पर्येषि परिगच्छसि । विश्वतः सर्वतः तव तत्प- वित्रं अतप्ततनूः पयोव्रतादिना असंतप्तगात्रः आमः अपरिपक्वोनाश्नुते नव्याप्नोति । शृता- सइत् श्रृताएव परिपक्वाएव वहन्तोयागं निर्वहन्तः तत्पवित्रं समाशत व्याप्नुवन्ति ॥ १ ॥