ग॒न्ध॒र्व इ॒त्था प॒दम᳚स्य रक्षति॒ पाति᳚ दे॒वानां॒ जनि᳚मा॒न्यद्भु᳚तः ।
गृ॒भ्णाति᳚ रि॒पुं नि॒धया᳚ नि॒धाप᳚तिः सु॒कृत्त᳚मा॒ मधु᳚नो भ॒क्षमा᳚शत ॥
गृ॒भ्णाति᳚ रि॒पुं नि॒धया᳚ नि॒धाप᳚तिः सु॒कृत्त᳚मा॒ मधु᳚नो भ॒क्षमा᳚शत ॥
पदपाठः (Word-by-word)
ग॒न्ध॒र्वः । इ॒त्था । प॒दम् । अ॒स्य॒ । र॒क्ष॒ति॒ । पाति᳚ । दे॒वाना᳚म् । जनि᳚मानि । अद्भु᳚तः ।
गृ॒भ्णाति᳚ । रि॒पुम् । नि॒॑धया᳚ । नि॒धा॑प᳚तिः । सु॒कृत्॑त᳚माः । मधु᳚नः । भ॒क्षम् । आ॒श॒त॒ ॥
गृ॒भ्णाति᳚ । रि॒पुम् । नि॒॑धया᳚ । नि॒धा॑प᳚तिः । सु॒कृत्॑त᳚माः । मधु᳚नः । भ॒क्षम् । आ॒श॒त॒ ॥
सायणभाष्यम् (Sayana Commentary)
गंधर्वः उदकानांस्तुतीनांवाधारक आदित्यः अस्य सोमस्यपदं स्थानं द्युसंबन्धिनं इ- त्थासत्यं रक्षति । सोयंसोमोदेवानां जनिमानि जन्मानि देवानित्यर्थः पातिरक्षति । अद्भु- तोमहान् । किंचायंरिपुं अस्मद्वैरिणं निधया निधा पाश्या पाशसमूहेन गृभ्णाति गृह्णाति निधापतिः पशुसमूहस्वामी तस्यास्यमधुनः मधुररसस्यभक्षं सुकृत्तमाः अतिशयेनसुकृत- कर्तारः एवआशत प्राप्नुवन्ति ॥ ४ ॥ अन्तिमेप्रवर्ग्ये परिधानीयायाः पूर्वं हविर्हविष्मइत्येषावपनीया । सूत्रितंच—उत्तमेप्रागुत्त- मायाहविर्हविष्मोमहिसद्मदैव्य मित्यावपेतेति ।