श्रवणम्

9.83.5
ह॒विर्ह᳚विष्मो॒ महि॒ सद्म॒ दैव्यं॒ नभो॒ वसा᳚न॒ः परि᳚ यास्यध्व॒रम् ।
राजा᳚ प॒वित्र᳚रथो॒ वाज॒मारु᳚हः स॒हस्र᳚भृष्टिर्जयसि॒ श्रवो᳚ बृ॒हत् ॥
▶ पदपाठः (Word-by-word)
ह॒विः । ह॒वि॒ष्मः॒ । महि᳚ । सद्म᳚ । दैव्य᳚म् । नभः᳚ । वसा᳚नः । परि᳚ । या॒सि॒ । अ॒ध्व॒रम् ।
राजा᳚ । प॒वित्र᳚॑रथः । वाज᳚म् । आ । अ॒रु॒हः॒ । स॒हस्र᳚॑भृष्टिः । ज॒य॒सि॒ । श्रवः᳚ । बृ॒हत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे हविष्मः हविरित्युदकनाम उदकवन् सोम हविर्भूतं नभ उदकनामैतत् उदकरसमि- त्यर्थः वसानः आच्छादयन् महि महत् दैव्यंसद्म यागगृहं परियासि परिगच्छस्यध्वरंनि- वोढुम् । किंच हे सोम राजा पवित्ररथश्च वाजं संग्रामं आरुहः आरोहसि यद्वा तत्रतत्र सं- ग्रामवाचकेनशब्देन यज्ञव्यवहारदर्शनादत्र वाजोयज्ञाख्यसंग्रामः तमारुहः यथाकश्चिद्राजा रथमारुह्य स्वस्थानंप्रतिशति तद्वदितिभावः । किंच सहस्रभृष्टिः बहुभ्रंशः अपरिमितगमन इत्यर्थः । अथवा भृष्ठिरायुधं असंख्यातायुधःसन् बृहत् श्रवः महदन्नं जयसि अस्माकं ॥ ५ ॥

पवस्वदेवमादनइति पंचर्चंसप्तदशंसूक्तं वाचापुत्रस्य प्रजापतेरार्षं जागतं पवमानसोम- देवताकम् । तथाचानुक्रान्तं—पवस्ववाच्यः प्रजापतिरिति । गतोविनियोगः ।