श्रवणम्

9.83.3
अरू᳚रुचदु॒षस॒ः पृश्नि᳚रग्रि॒य उ॒क्षा बि᳚भर्ति॒ भुव᳚नानि वाज॒युः ।
मा॒या॒विनो᳚ ममिरे अस्य मा॒यया᳚ नृ॒चक्ष᳚सः पि॒तरो॒ गर्भ॒मा द᳚धुः ॥
▶ पदपाठः (Word-by-word)
अरू᳚रुचत् । उ॒षसः᳚ । पृश्निः᳚ । अ॒ग्रि॒यः । उ॒क्षा । बि॒भ॒र्ति॒ । भुव᳚नानि । वा॒ज॒॑युः ।
मा॒या॒॑विनः᳚ । म॒मि॒रे॒ । अ॒स्य॒ । मा॒यया᳚ । नृ॒॑चक्ष᳚सः । पि॒तरः᳚ । गर्भ᳚म् । आ । द॒धुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उषसःसंबन्धी पृश्निरादित्यः । पृश्निरादित्योभवतिप्राश्नुतएनंवर्णइतिनिरुक्तम् । अग्रियो मुख्यः सोयंसोमः अरूरुचत् रोचयति सउक्षा जलस्यसेक्ता बिभर्ति पुष्णात्युदकेन भुव- नानि भूतजातानि वाजयुः तेषामन्नमिच्छन् मायाविनः मायाप्रज्ञा प्रज्ञावन्तः अस्यसोम- स्य मायया प्रज्ञया ममिरे निर्मांति सोमस्यैकैकांशपानेनजातबलाअग्न्यादयः स्वस्वव्यापा- रेणजगत्सृजंतीत्यर्थः । तथास्यमायया नृचक्षसोनृणांद्रष्टारः पालकादेवाः अंगिरसः पितरो- वागर्भमादधुः धारयंति ओषधीषु वा अत्रसूर्यात्मासोमः स्तूयते सूर्यरश्म्यनुगमाधीनवर्धना- च्चन्द्रस्य । अयमुषसः पृश्निःसविता अरूरुचत् रोचयति सर्वंरोचतेवा शिष्टंसमानम् । तत्सं- बंधिनः नृचक्षसः नृणांद्रष्टारः पितरोजग्द्रक्षकारश्मयोगर्भमादधुः वृष्ट्यर्थम् ॥ ३ ॥ अभिष्टवे खरमवेक्ष्यमाणो गंधर्वइत्थेत्येतांपठेत् । सूत्रितंच—गधर्वइत्थापदमस्यरक्षतीति खरमवेक्ष्येति ।