स प॒वित्रे᳚ विचक्ष॒णो हरि᳚रर्षति धर्ण॒सिः ।
अ॒भि योनिं॒ कनि᳚क्रदत् ॥
अ॒भि योनिं॒ कनि᳚क्रदत् ॥
पदपाठः (Word-by-word)
सः । प॒वित्रे᳚ । वि॒॑च॒क्ष॒णः । हरिः᳚ । अ॒र्ष॒ति॒ । ध॒र्ण॒सिः ।
अ॒भि । योनि᳚म् । कनि᳚क्रदत् ॥
अ॒भि । योनि᳚म् । कनि᳚क्रदत् ॥
सायणभाष्यम् (Sayana Commentary)
ससोमो विचक्षणः पश्यतिकर्म एतत् सर्वस्यद्रष्टा हरिर्हरितवर्णः सोमो धर्णसिः सर्वस्य धारकः पवित्रे अर्षति गच्छति पश्चात् कनिक्रदत् शब्दंकुर्वन् योनिं स्थानं द्रोणकलशमभि गच्छति ॥ २ ॥