श्रवणम्

9.37.4
स त्रि॒तस्याधि॒ सान᳚वि॒ पव᳚मानो अरोचयत् ।
जा॒मिभि॒ः सूर्यं᳚ स॒ह ॥
▶ पदपाठः (Word-by-word)
सः । त्रि॒तस्य᳚ । अधि᳚ । सान᳚वि । पव᳚मानः । अ॒रो॒च॒य॒त् ।
जा॒मि॑भिः᳚ । सूर्य᳚म् । स॒ह ॥
▶ सायणभाष्यम् (Sayana Commentary)

ससोमस्त्रितस्य महर्षेः अधिसानवि समुच्छ्रिते यज्ञे । अधीति सप्तम्यर्थानुवादी । पवमानः पूयमानः जामिभिः प्रव्रुद्धैः बन्धुभूतैर्वा स्वतेजोभिः सह सहितःसन् सूर्यमरोचयत् प्रकाशितवान् ॥ ४ ॥