स वा॒जी रो᳚च॒ना दि॒वः पव᳚मानो॒ वि धा᳚वति ।
र॒क्षो॒हा वार᳚म॒व्यय᳚म् ॥
र॒क्षो॒हा वार᳚म॒व्यय᳚म् ॥
पदपाठः (Word-by-word)
सः । वा॒जी । रो॒च॒ना । दि॒वः । पव᳚मानः । वि । धा॒व॒ति॒ ।
र॒क्षः॒॑हा । वार᳚म् । अ॒व्यय᳚म् ॥
र॒क्षः॒॑हा । वार᳚म् । अ॒व्यय᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
सवाजी वेजनवानश्वस्थानीयोदिवः स्वर्गस्य रोचना रोचकः पवमानः पूयमानो विधावति । कीदृशः रक्षोहा रक्षोहन्ता अव्ययं वारं दशापवित्र- मतीत्य च धावति ॥ ३ ॥