स वृ᳚त्र॒हा वृषा᳚ सु॒तो व᳚रिवो॒विददा᳚भ्यः ।
सोमो॒ वाज᳚मिवासरत् ॥
सोमो॒ वाज᳚मिवासरत् ॥
पदपाठः (Word-by-word)
सः । वृ॒त्र॒॑हा । वृषा᳚ । सु॒तः । व॒रि॒वः॒॑वित् । अदा᳚भ्यः ।
सोमः᳚ । वाज᳚म्॑इव । अ॒स॒र॒त् ॥
सोमः᳚ । वाज᳚म्॑इव । अ॒स॒र॒त् ॥
सायणभाष्यम् (Sayana Commentary)
सवृत्रहा वृषा वर्षकः सुतोभिषुतो वरिवोवित् यष्टुर्धनस्यलंभकः अदाभ्यः आ दातृभ्योन्यैरदंभनीयः सोमो वाजमिव संग्राममश्वइवासरत् गच्छति कलशं ॥ ५ ॥