श्रवणम्

9.37.6
स दे॒वः क॒विने᳚षि॒तो॒३॒᳚॑भि द्रोणा᳚नि धावति ।
इन्दु॒रिन्द्रा᳚य मं॒हना᳚ ॥
▶ पदपाठः (Word-by-word)
सः । दे॒वः । क॒विना᳚ । इ॒षि॒तः । अ॒भि । द्रोणा᳚नि । धा॒व॒ति॒ ।
इन्दुः᳚ । इन्द्रा᳚य । मं॒हना᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ससोमो देवइन्दुः क्लिद्यमानः कविना क्रान्तप्रज्ञेन अध्वर्युणा इषितः प्रेरितःसन् द्रोणानि द्रोणकलशानभिधावति अभिगच्छति । किमर्थं इन्द्रा- येन्द्रार्थं मंहना महान् सइति समन्वयः ॥ ६ ॥

एषइति षळृचं चतुर्दशंसूक्तं ऋष्याद्याः पूर्ववत् । एषउस्यत्रितइत्यनुक्रान्तम् । गतोविनियोगः ।