अ॒भि प्रि॒याणि᳚ पवते॒ चनो᳚हितो॒ नामा᳚नि य॒ह्वो अधि॒ येषु॒ वर्ध᳚ते ।
आ सूर्य᳚स्य बृह॒तो बृ॒हन्नधि॒ रथं॒ विष्व᳚ञ्चमरुहद्विचक्ष॒णः ॥
आ सूर्य᳚स्य बृह॒तो बृ॒हन्नधि॒ रथं॒ विष्व᳚ञ्चमरुहद्विचक्ष॒णः ॥
पदपाठः (Word-by-word)
अ॒भि । प्रि॒याणि᳚ । प॒व॒ते॒ । चनः᳚॑हितः । नामा᳚नि । य॒ह्वः । अधि᳚ । येषु᳚ । वर्ध᳚ते ।
आ । सूर्य᳚स्य । बृ॒ह॒तः । बृ॒हन् । अधि᳚ । रथ᳚म् । विष्व᳚ञ्चम् । अ॒रु॒ह॒त् । वि॒॑च॒क्ष॒णः ॥
आ । सूर्य᳚स्य । बृ॒ह॒तः । बृ॒हन् । अधि᳚ । रथ᳚म् । विष्व᳚ञ्चम् । अ॒रु॒ह॒त् । वि॒॑च॒क्ष॒णः ॥
सायणभाष्यम् (Sayana Commentary)
चनोहितः चनइत्यन्ननाम चायतेरसुनि चनइत्यौणादिकसूत्रेण निपातितः चनसेन्नाय हितः । यद्वा हितान्नः सोमः प्रियाणि जगतः प्रीणयितॄणि नामानि नमनशीलानि तान्युद- कान्यभीपवते अभितःकरोति येष्वन्तरिक्षस्थितेषूदकेषु यह्वोमहानयंसोमोधिवर्धते अधिकं- प्रवृद्धोभवति अपांमध्येसोमोवसति ततोबृहन् महान् सोमः बृहतोमहतः परिवृढस्यसूर्यस्य विष्वंचं विष्वग्गमनं अधि उपरिरथं विचक्षणः सर्वस्यविद्रष्टा सन् आरुहत् आरोहति अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठतेइति ॥ १ ॥