अद्रि᳚भिः सु॒तो म॒तिभि॒श्चनो᳚हितः प्ररो॒चय॒न्रोद᳚सी मा॒तरा॒ शुचि᳚ः ।
रोमा॒ण्यव्या᳚ स॒मया॒ वि धा᳚वति॒ मधो॒र्धारा॒ पिन्व᳚माना दि॒वेदि᳚वे ॥
रोमा॒ण्यव्या᳚ स॒मया॒ वि धा᳚वति॒ मधो॒र्धारा॒ पिन्व᳚माना दि॒वेदि᳚वे ॥
पदपाठः (Word-by-word)
अद्रि᳚॑भिः । सु॒तः । म॒ति॑भिः᳚ । चनः᳚॑हितः । प्र॒॑रो॒चय᳚न् । रोद᳚सी॒ इति᳚ । मा॒तरा᳚ । शुचिः᳚ ।
रोमा᳚णि । अव्या᳚ । स॒मया᳚ । वि । धा॒व॒ति॒ । मधोः᳚ । धारा᳚ । पिन्व᳚माना । दि॒वे॑दि᳚वे ॥
रोमा᳚णि । अव्या᳚ । स॒मया᳚ । वि । धा॒व॒ति॒ । मधोः᳚ । धारा᳚ । पिन्व᳚माना । दि॒वे॑दि᳚वे ॥
सायणभाष्यम् (Sayana Commentary)
मतिभिः । मनज्ञाने मंत्रेवृषेषपचनेतिक्तिन्नुदात्तः । स्तुतिभिरद्रिभिर्ग्रावभिश्च सुतोभिषु- तोचनोहितः चनसेन्नायहितः हितान्नोवा मातरा जगतोनिर्मात्र्यौ रोदसी द्यावापृथिव्यौ प्ररोचयन् स्वतेजसा प्रकाशयन् अतएव शुचिर्दीप्यमानः एवंविधः सोमः अव्यानि अवि- भवानि रोमाणि तैःकृतानिपवित्राणि समया अभितः समीपे विधावति विशेषेण रक्षति किंच पिन्वमाना अद्भिः सिच्यमाना मधोर्मदकरस्य सोमस्य धारा दिवेदिवे अन्वहं दीर्घ सत्रेषु पवित्राण्युभयतः पवते ॥ ४ ॥