परि᳚ सोम॒ प्र ध᳚न्वा स्व॒स्तये॒ नृभि᳚ः पुना॒नो अ॒भि वा᳚सया॒शिर᳚म् ।
ये ते॒ मदा᳚ आह॒नसो॒ विहा᳚यस॒स्तेभि॒रिन्द्रं᳚ चोदय॒ दात᳚वे म॒घम् ॥
ये ते॒ मदा᳚ आह॒नसो॒ विहा᳚यस॒स्तेभि॒रिन्द्रं᳚ चोदय॒ दात᳚वे म॒घम् ॥
पदपाठः (Word-by-word)
परि᳚ । सो॒म॒ । प्र । ध॒न्व॒ । स्व॒स्तये᳚ । नृ॑भिः᳚ । पु॒ना॒नः । अ॒भि । वा॒स॒य॒ । आ॒॑शिर᳚म् ।
ये । ते॒ । मदाः᳚ । आ॒ह॒नसः᳚ । वि॑हा᳚यसः । तेभिः᳚ । इन्द्र᳚म् । चो॒द॒य॒ । दात᳚वे । म॒घम् ॥
ये । ते॒ । मदाः᳚ । आ॒ह॒नसः᳚ । वि॑हा᳚यसः । तेभिः᳚ । इन्द्र᳚म् । चो॒द॒य॒ । दात᳚वे । म॒घम् ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम स्वस्तये अविनाशाय परिप्रधन्व पात्राणि परितः प्रगच्छ धविर्गत्यर्थः । किंच नृभिः कर्मनेतृभिरृत्विग्भिः पुनानः पूयमानस्त्वं आशिरमाश्रयणं क्षीरादिकमभिवासय आ- च्छादय संयोजयेतियावत् । आहनसः आहनवन्तोवचनवन्तइतियास्कः । शत्रूणामाभिमुख्येन हन्तारः अभिहन्यमाना अभिषूयमाणाःस्तुतिमन्तः शब्दवन्तोवा विहायसःमहन्नामैतत् महा न्तस्तेत्वदीया येमदा मदहेतवोरसाः सन्ति तेभिस्तैः सोमैरस्माभिर्दीयमानैर्मघं मंहनीयं धनमस्मभ्यं दातवे दातुमिन्द्रं चोदय प्रेरय ॥ ५ ॥
वेदार्थस्यप्रकाशेन तमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥
इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेणसाय- णाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्ससंहिताभाष्ये सप्तमाष्टके द्वितीयोध्यायः ॥ २ ॥