श्रवणम्

9.75.2
ऋ॒तस्य᳚ जि॒ह्वा प᳚वते॒ मधु᳚ प्रि॒यं व॒क्ता पति᳚र्धि॒यो अ॒स्या अदा᳚भ्यः ।
दधा᳚ति पु॒त्रः पि॒त्रोर᳚पी॒च्यं१॒᳚ नाम᳚ तृ॒तीय॒मधि᳚ रोच॒ने दि॒वः ॥
▶ पदपाठः (Word-by-word)
ऋ॒तस्य᳚ । जि॒ह्वा । प॒व॒ते॒ । मधु᳚ । प्रि॒यम् । व॒क्ता । पतिः᳚ । धि॒यः । अ॒स्याः । अदा᳚भ्यः ।
दधा᳚ति । पु॒त्रः । पि॒त्रोः । अ॒पी॒च्य᳚म् । नाम᳚ । तृ॒तीय᳚म् । अधि᳚ । रो॒च॒ने । दि॒वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतस्य सत्यभूतस्य यज्ञस्य जिह्वा मुख्यत्वेन जिह्वास्थानीयः सोमः प्रियं प्रियकरं मधु मदकरं रसं पवते क्षरति । कीदृशः वक्ता शब्दकृत् यद्वा स्तोतृभिः क्रियमाणाः स्तुत- यः साधीयस्यइति प्रतिश्रवणस्य कर्ता अस्याः धियः एतस्यकर्मणः पतिः पालयिता अदा भ्योरक्षोभिर्हिसितुमशक्यः पुत्रोयजमानः पित्रोर्मातापित्रोरपीच्यं अन्तर्हितं यन्नाम तौ न- जानीतः नामकरणवेलायाम् । तस्मात्तयोरपरिज्ञायमानं तत्तृनीयं नाम दिवोद्युलोकस्य रोच- ने दीप्यमाने सोमेभिषूयमाणेसति अधि दधाति अत्यन्तं धारयति । नक्षत्रव्यावहारिकना- म्नी प्रभाष्य सोमयाजीति तृतीयमस्यनामेति भग्वताबौधायनेनोक्तं ॥ २ ॥