श्रवणम्

9.82.1 समानपद
असा᳚वि॒ सोमो᳚ अरु॒षो वृषा॒ हरी॒ राजे᳚व द॒स्मो अ॒भि गा अ᳚चिक्रदत् ।
पु॒ना॒नो वारं॒ पर्ये᳚त्य॒व्ययं᳚ श्ये॒नो न योनिं᳚ घृ॒तव᳚न्तमा॒सद᳚म् ॥
▶ पदपाठः (Word-by-word)
असा᳚वि । सोमः᳚ । अ॒रु॒षः । वृषा᳚ । हरिः᳚ । राजा᳚॑इव । द॒स्मः । अ॒भि । गाः । अ॒चि॒क्र॒द॒त् ।
पु॒ना॒नः । वार᳚म् । परि᳚ । ए॒ति॒ । अ॒व्यय᳚म् । श्ये॒नः । न । योनि᳚म् । घृ॒त॑व᳚न्तम् । आ॒॑सद᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोम । असावि अभिषुतोभूत् कीदृशः सोमः अरुष आरोचमानः वृषावर्षको हरिर्हरित वर्णः । सच राजेव दस्मोदर्शनीयः सन् गाउदकानि अभिलक्ष्य अचिक्रदच्छब्दंकरोति स्वरसनिर्मोकसमये । पश्चात्पुनानः पूयमानः अव्ययंवारं वालं दशापवित्रं पर्येति श्येनोन श्येनइव योनिं स्वकीयंस्थानं घृतवन्तमुदकवन्तं आसदं आसदनाय पवतइतिशेषः ॥ १ ॥