यथा॒ पूर्वे᳚भ्यः शत॒सा अमृ᳚ध्रः सहस्र॒साः प॒र्यया॒ वाज᳚मिन्दो ।
ए॒वा प᳚वस्व सुवि॒ताय॒ नव्य᳚से॒ तव᳚ व्र॒तमन्वापः᳚ सचन्ते ॥
ए॒वा प᳚वस्व सुवि॒ताय॒ नव्य᳚से॒ तव᳚ व्र॒तमन्वापः᳚ सचन्ते ॥
पदपाठः (Word-by-word)
यथा᳚ । पूर्वे᳚भ्यः । श॒त॒॑साः । अमृ᳚ध्रः । स॒ह॒स्र॒॑साः । प॒रि॒॑अयाः᳚ । वाज᳚म् । इ॒न्दो॒ इति᳚ ।
ए॒व । प॒व॒स्व॒ । सु॒वि॒ताय᳚ । नव्य᳚से । तव᳚ । व्र॒तम् । अनु᳚ । आपः᳚ । स॒च॒न्ते॒ ॥
ए॒व । प॒व॒स्व॒ । सु॒वि॒ताय᳚ । नव्य᳚से । तव᳚ । व्र॒तम् । अनु᳚ । आपः᳚ । स॒च॒न्ते॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्दोसोम यथापूर्वेभ्योमहर्षिभ्यः स्तोतृभ्यः शतसाः शतसंख्याकस्यधनस्यदाता अमृध्रः अभवः तथा सहस्रसाश्च वाजमन्नं तस्यदाताचसन् पर्ययाः परिगच्छेः एवमेव- मिदानीमपि नव्यसे नवतराय सुवितायाभ्युदयाय पवस्व क्षर । तव व्रतंकर्म अन्वापो- वसतीवर्यः सचन्ते अतः पवस्व ॥ ५ ॥
पवित्रंतइति पंचर्चंषोडशंसूक्तं आंगिरसस्य पवित्रस्यार्षं जागतं पवमानसोमदेवताकं तथाचानुक्रान्तं—पवित्रंतेपवित्रइति । अभिष्टवे आद्येऋचौवक्तव्ये । सूत्रितंच—पवित्रंतेविततं- ब्रह्मणस्पतइतिद्वे वियत्पवित्रंधिषणाअतन्वतेति ।