क॒विर्वे᳚ध॒स्या पर्ये᳚षि॒ माहि᳚न॒मत्यो॒ न मृ॒ष्टो अ॒भि वाज᳚मर्षसि ।
अ॒प॒सेध᳚न्दुरि॒ता सो᳚म मृळय घृ॒तं वसा᳚न॒ः परि᳚ यासि नि॒र्णिज᳚म् ॥
अ॒प॒सेध᳚न्दुरि॒ता सो᳚म मृळय घृ॒तं वसा᳚न॒ः परि᳚ यासि नि॒र्णिज᳚म् ॥
पदपाठः (Word-by-word)
क॒विः । वे॒ध॒स्या । परि᳚ । ए॒षि॒ । माहि᳚नम् । अत्यः᳚ । न । मृ॒ष्टः । अ॒भि । वाज᳚म् । अ॒र्ष॒सि॒ ।
अ॒प॒॑सेध᳚न् । दुः॒॑इ॒ता । सो॒म॒ । मृ॒ळ॒य॒ । घृ॒तम् । वसा᳚नः । परि᳚ । या॒सि॒ । निः॒॑निज᳚म् ॥
अ॒प॒॑सेध᳚न् । दुः॒॑इ॒ता । सो॒म॒ । मृ॒ळ॒य॒ । घृ॒तम् । वसा᳚नः । परि᳚ । या॒सि॒ । निः॒॑निज᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम कविः क्रान्तदर्शी सन् वेधस्या यागविधानेच्छया माहिनं मंहनीयं पवित्रं पर्येषि परिगच्छसि पश्चान्मृष्टः प्रक्षालितः अत्योन अश्वइव वाजं संग्राममभ्यर्षसि । हे सोम दुरिता अस्माकं दुरितानि अपसेधन् परिहरन् मृळ्य सुखय । घृतमुदकं वसानआच्छादयन् परियासि अभिगच्छसि । किं निर्णिजं निर्णेजकं पवित्रं ॥ २ ॥