जा॒येव॒ पत्या॒वधि॒ शेव᳚ मंहसे॒ पज्रा᳚या गर्भ शृणु॒हि ब्रवी᳚मि ते ।
अ॒न्तर्वाणी᳚षु॒ प्र च᳚रा॒ सु जी॒वसे᳚॑नि॒न्द्यो वृ॒जने᳚ सोम जागृहि ॥
अ॒न्तर्वाणी᳚षु॒ प्र च᳚रा॒ सु जी॒वसे᳚॑नि॒न्द्यो वृ॒जने᳚ सोम जागृहि ॥
पदपाठः (Word-by-word)
जा॒या॑इ᳚व । पत्यौ᳚ । अधि᳚ । शेव᳚ । मं॒ह॒से॒ । पज्रा᳚याः । ग॒र्भ॒ । शृ॒णु॒हि । ब्रवी᳚मि । ते॒ ।
अ॒न्तः । वाणी᳚षु । प्र । च॒र॒ । सु । जी॒वसे᳚ । अ॒नि॒न्द्यः । वृ॒जने᳚ । सो॒म॒ । जा॒गृ॒हि॒ ॥
अ॒न्तः । वाणी᳚षु । प्र । च॒र॒ । सु । जी॒वसे᳚ । अ॒नि॒न्द्यः । वृ॒जने᳚ । सो॒म॒ । जा॒गृ॒हि॒ ॥
सायणभाष्यम् (Sayana Commentary)
जायेवपत्यौ जाया यथा स्वभार्या भर्तरि सुखंप्रयच्छति तद्वत् । शेव शेवं द्वितीयाया- आम् भावाभावश्छान्दसः सुखं मंहसे प्रयच्छसि यजमाने । हे पज्रायाः गर्भ सोम शृणुहि शृणु स्तुतीः यास्तेतुभ्यं ब्रवीमि । पजिर्गतिकर्मा । पज्रापृथिवीत्याहुः अपिवा माध्यमिकावक् पज्रा भूमावोषधिरूपेण जातत्वाद्गर्भत्वं माध्यमिकायावचोपि वृष्टिसाधनत्वात्तत्पुत्रत्वम् । सत्वं वाणीषु वाक्षु स्तुतिष्वन्तर्मध्ये सुसुष्ठु प्रचर जीवसेस्माकं जीवनाय हे सोम अनि- न्द्यः स्तुत्यस्त्वं वृजनेस्माकं शत्रुबले जागृहि बुद्धोभव ॥ ४ ॥