प॒र्जन्य᳚ः पि॒ता म᳚हि॒षस्य᳚ प॒र्णिनो॒ नाभा᳚ पृथि॒व्या गि॒रिषु॒ क्षयं᳚ दधे ।
स्वसा᳚र॒ आपो᳚ अ॒भि गा उ॒तास᳚र॒न्त्सं ग्राव᳚भिर्नसते वी॒ते अ᳚ध्व॒रे ॥
स्वसा᳚र॒ आपो᳚ अ॒भि गा उ॒तास᳚र॒न्त्सं ग्राव᳚भिर्नसते वी॒ते अ᳚ध्व॒रे ॥
पदपाठः (Word-by-word)
प॒र्जन्यः᳚ । पि॒ता । म॒हि॒षस्य᳚ । प॒र्णिनः᳚ । नाभा᳚ । पृ॒थि॒व्याः । गि॒रिषु᳚ । क्षय᳚म् । द॒धे॒ ।
स्वसा᳚रः । आपः᳚ । अ॒भि । गाः । उ॒त । अ॒स॒र॒न् । सम् । ग्राव᳚॑भिः । न॒स॒ते॒ । वी॒ते । अ॒ध्व॒रे ॥
स्वसा᳚रः । आपः᳚ । अ॒भि । गाः । उ॒त । अ॒स॒र॒न् । सम् । ग्राव᳚॑भिः । न॒स॒ते॒ । वी॒ते । अ॒ध्व॒रे ॥
सायणभाष्यम् (Sayana Commentary)
यस्य महिषस्य महतः पर्णिनः पर्णवतः पतनवतोवा सोमस्य पर्जन्यः पिता जनकः ससोमः पृथिव्या नाभा नाभौ नाभिस्थानीये हविर्धानीये गिरिषु गिरिसंबन्धिग्रावसु क्षयं निवासं दधे धारयत्यभिषवसमये । उतापि स्वसारोंगुलय आपोवसतीवर्योगाः आशिरार्थाः स्रुतयोवाअभ्यसरन् अभिसरन्ति संनसते संगच्छतेच ग्रावभिः साकम् । कुत्र वीते कान्ते अध्वरे यज्ञे ॥ ३ ॥