ए॒ते धा᳚व॒न्तीन्द᳚व॒ः सोमा॒ इन्द्रा᳚य॒ घृष्व᳚यः ।
म॒त्स॒रासः᳚ स्व॒र्विदः᳚ ॥
म॒त्स॒रासः᳚ स्व॒र्विदः᳚ ॥
पदपाठः (Word-by-word)
ए॒ते । धा॒व॒न्ति॒ । इन्द᳚वः । सोमाः᳚ । इन्द्रा᳚य । घृष्व᳚यः ।
म॒त्स॒रासः᳚ । स्वः॒॑विदः᳚ ॥
म॒त्स॒रासः᳚ । स्वः॒॑विदः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
एतेसोमा इन्द्राय धावन्ति गच्छन्ति । कीदृशाएते इन्दवः क्लेदयितारः दीप्तावा घृष्वयो घर्षणशीलाः मत्सरासो मादयितारः स्वर्विदः स्वर्लोकस्य लंभयितारः ॥ १ ॥