श्रवणम्

9.21.3
वृथा॒ क्रीळ᳚न्त॒ इन्द᳚वः स॒धस्थ᳚म॒भ्येक॒मित् ।
सिन्धो᳚रू॒र्मा व्य᳚क्षरन् ॥
▶ पदपाठः (Word-by-word)
वृथा᳚ । क्रीळ᳚न्तः । इन्द᳚वः । स॒ध॑स्थ᳚म् । अ॒भि । एक᳚म् । इत् ।
सिन्धोः᳚ । ऊ॒र्मा । वि । अ॒क्ष॒र॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृथा अनायासेन क्रीळन्त इन्दवः सोमाः एकमित् एकमेव सधस्थं सहस्थानं द्रोणकलशंवा अभ्यक्षरन् इतिशेषः । सिन्धोरूर्मा वसतीवरीषु व्यक्षरन् ॥ ३ ॥