श्रवणम्

9.21.2
प्र॒वृ॒ण्वन्तो᳚ अभि॒युज॒ः सुष्व᳚ये वरिवो॒विदः᳚ ।
स्व॒यं स्तो॒त्रे व᳚य॒स्कृतः᳚ ॥
▶ पदपाठः (Word-by-word)
प्र॒॑वृ॒ण्वन्तः᳚ । अ॒भि॒॑युजः᳚ । सुस्व᳚ये । व॒रि॒वः॒॑विदः᳚ ।
स्व॒यम् । स्तो॒त्रे । व॒यः॒॑कृतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रवृण्वन्तः सुवानं प्रकर्षेण संभजन्तः तथा अभियुजः अभियोजयितारः सुष्वये सुष्ठु अभिषवकर्त्रे वरिवोविदः वरिवइति धननाम तस्य लंभयितारः स्वयं स्तोत्रे वयस्कृतोन्नस्यकर्तारः एते धावन्तीति संबन्धः ॥ २ ॥