आस्मि᳚न्पि॒शङ्ग᳚मिन्दवो॒ दधा᳚ता वे॒नमा॒दिशे᳚ ।
यो अ॒स्मभ्य॒मरा᳚वा ॥
यो अ॒स्मभ्य॒मरा᳚वा ॥
पदपाठः (Word-by-word)
आ । अ॒स्मि॒न् । पि॒शङ्ग᳚म् । इ॒न्द॒वः॒ । दधा᳚त । वे॒नम् । आ॒॑दिशे᳚ ।
यः । अ॒स्मभ्य᳚म् । अरा᳚वा ॥
यः । अ॒स्मभ्य᳚म् । अरा᳚वा ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्दवः सोमाः अस्मिन्यजमाने पिशंगं बहुरूपं मणिमुक्ताहिरण्यादिभेदेन नानारूपं वेनं कामयन्तं बहुविधंकामं आदिशे अस्मभ्यमादेशनाय आदधात आयच्छत । योयजमानोस्मभ्यं अरावा अदातृशब्दरहितः संपन्नंसन् प्रयच्छति प्राप्तकामएवखलु ऋत्विग्भ्यः प्रयच्छति ॥ ५ ॥