श्रवणम्

9.21.6
ऋ॒भुर्न रथ्यं॒ नवं॒ दधा᳚ता॒ केत᳚मा॒दिशे᳚ ।
शु॒क्राः प᳚वध्व॒मर्ण᳚सा ॥
▶ पदपाठः (Word-by-word)
ऋ॒भुः । न । रथ्य᳚म् । नव᳚म् । दधा᳚त । केत᳚म् । आ॒॑दिशे᳚ ।
शु॒क्राः । प॒व॒ध्व॒म् । अर्ण᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋभुर्न ऋभुर्भासमानो रथस्वामीव सयथा रथ्यं रथस्य नेतारं नवं स्तुत्यं कुशलं सारथिनं अग्र आधत्ते तद्वदस्मदीयेस्मिन् आदिशे स्वामिनि केतं प्रज्ञानं दधात स्थापयत । हे सोमाः योस्मभ्यं प्रयच्छति तस्मिन्नित्यर्थः । हे सोमाः अर्णसा उदकेन शुक्राः दीप्ताः सन्तः पवध्वं क्षरध्वम् ॥ ६ ॥