ए॒ते विश्वा᳚नि॒ वार्या॒ पव᳚मानास आशत ।
हि॒ता न सप्त᳚यो॒ रथे᳚ ॥
हि॒ता न सप्त᳚यो॒ रथे᳚ ॥
पदपाठः (Word-by-word)
ए॒ते । विश्वा᳚नि । वार्या᳚ । पव᳚मानासः । आ॒श॒त॒ ।
हि॒ताः । न । सप्त᳚यः । रथे᳚ ॥
हि॒ताः । न । सप्त᳚यः । रथे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
एते सोमाः पवमानासः पूयमानाः विश्वानि वार्या वार्याणि वरणीयानि धनानि आशत व्याप्नुवन् । रथे हिताः स्थापितानसप्तयः सप्तयोश्वाइव ते यथा रथमभिमतं देशं प्राप्नुवन्ति तद्धद्धनमस्माकं प्रायच्छन्नित्यर्थः ॥ ४ ॥