श्रवणम्

9.23.1
सोमा᳚ असृग्रमा॒शवो॒ मधो॒र्मद᳚स्य॒ धार᳚या ।
अ॒भि विश्वा᳚नि॒ काव्या᳚ ॥
▶ पदपाठः (Word-by-word)
सोमाः᳚ । अ॒सृ॒ग्र॒म् । आ॒शवः᳚ । मधोः᳚ । मद᳚स्य । धार᳚या ।
अ॒भि । विश्वा᳚नि । काव्या᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आशवः शीघ्राः सोमाः असृग्रं असृग्रन् सृज्यन्ते मधोर्मधुरस्य मदस्य मदकरस्य धारया असृग्रमितिसंबन्धः । किंप्रति उच्यते-अभिलक्षीकृत्य विश्वानि सर्वाणि काव्या काव्यानि स्तोत्राणि प्रतिस्तोत्रसमयइत्यर्थः ॥ १ ॥