इन्द्रा᳚य सोम पवसे दे॒वेभ्य᳚ः सध॒माद्य᳚ः ।
इन्दो॒ वाजं᳚ सिषाससि ॥
इन्दो॒ वाजं᳚ सिषाससि ॥
पदपाठः (Word-by-word)
इन्द्रा᳚य । सो॒म॒ । प॒व॒से॒ । दे॒वेभ्यः᳚ । स॒ध॒॑माद्यः᳚ ।
इन्दो॒ इति᳚ । वाज᳚म् । सि॒सा॒स॒सि॒ ॥
इन्दो॒ इति᳚ । वाज᳚म् । सि॒सा॒स॒सि॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम सधमाद्यः सधमादोयज्ञः तदर्हस्त्वं इन्द्राय देवेभ्यश्चान्येभ्यः पवसे क्षरसे । हे तादृशेन्दो सोम अस्मभ्यं वाजमन्नं सिषाससि दातुमिच्छसि ॥ ६ ॥