आ प᳚वमान नो भरा॒र्यो अदा᳚शुषो॒ गय᳚म् ।
कृ॒धि प्र॒जाव᳚ती॒रिषः᳚ ॥
कृ॒धि प्र॒जाव᳚ती॒रिषः᳚ ॥
पदपाठः (Word-by-word)
आ । प॒व॒मा॒न॒ । नः॒ । भ॒र॒ । अ॒र्यः । अदा᳚शुषः । गय᳚म् ।
कृ॒धि । प्र॒जा॑व᳚तीः । इषः᳚ ॥
कृ॒धि । प्र॒जा॑व᳚तीः । इषः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे पवमान सोम त्वं नोस्मभ्यं अर्यः अरेः अदाशुषः अप्रयच्छतो गयं गृहं गृहोपलक्षितं धनं आभर आहर । तथास्मभ्यं प्रजावतीरिषश्च कृधि कुरु ॥ ३ ॥