अ॒स्य पी॒त्वा मदा᳚ना॒मिन्द्रो᳚ वृ॒त्राण्य᳚प्र॒ति ।
ज॒घान᳚ ज॒घन᳚च्च॒ नु ॥
ज॒घान᳚ ज॒घन᳚च्च॒ नु ॥
पदपाठः (Word-by-word)
अ॒स्य । पी॒त्वा । मदा᳚नाम् । इन्द्रः᳚ । वृ॒त्राणि᳚ । अ॒प्र॒ति ।
ज॒घान᳚ । ज॒घन᳚त् । च॒ । नु ॥
ज॒घान᳚ । ज॒घन᳚त् । च॒ । नु ॥
सायणभाष्यम् (Sayana Commentary)
मदानां मदकराणां मध्ये अतिशयेन मदकरं अस्य अमुं सोमं पीत्वा वृत्राणि शत्रून् प्रतिगतः सन् इन्द्रोजघान हतवान् नु क्षिप्रं जघनच्च हन्तुंचेदा- नीमिति ॥ ७ ॥