सोमो᳚ अर्षति धर्ण॒सिर्दधा᳚न इन्द्रि॒यं रस᳚म् ।
सु॒वीरो᳚ अभिशस्ति॒पाः ॥
सु॒वीरो᳚ अभिशस्ति॒पाः ॥
पदपाठः (Word-by-word)
सोमः᳚ । अ॒र्ष॒ति॒ । ध॒र्ण॒सिः । दधा᳚नः । इ॒न्द्रि॒यम् । रस᳚म् ।
सु॒॑वीरः᳚ । अ॒भि॒श॒स्ति॒॑पाः ॥
सु॒॑वीरः᳚ । अ॒भि॒श॒स्ति॒॑पाः ॥
सायणभाष्यम् (Sayana Commentary)
सोमोअर्षति गच्छति । कीदृशः सः धर्णसिः धारकः जगतां तथा इन्द्रियं इन्द्रियवर्धकं रसं दधानोधारयन् सुवीरः सुवीर्यः अभिशस्तिपाः अभिरास्तेः पाता अभितोहिंसा ततोरक्षकइत्यर्थः । सोमपानं ब्नह्महत्यादिनिन्दामनुमार्ष्टीति प्रसिद्धं ॥ ५ ॥