अ॒भि सोमा᳚स आ॒यव॒ः पव᳚न्ते॒ मद्यं॒ मद᳚म् ।
अ॒भि कोशं᳚ मधु॒श्चुत᳚म् ॥
अ॒भि कोशं᳚ मधु॒श्चुत᳚म् ॥
पदपाठः (Word-by-word)
अ॒भि । सोमा᳚सः । आ॒यवः᳚ । पव᳚न्ते । मद्य᳚म् । मद᳚म् ।
अ॒भि । कोश᳚म् । म॒धु॒॑श्चुत᳚म् ॥
अ॒भि । कोश᳚म् । म॒धु॒॑श्चुत᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
आयवोगन्तारः सोमासः सोमाः मद्यं मदकरं मदं रसं अभिपवन्ते क्षरन्ति । तथा मधुश्चुतं मधुस्राविणं कोशम् । रसाधारेण कोशशब्देन तत्रामिश्रितो रसोलक्ष्यते । तं अभिपचन्त इतिशेषः ॥ ४ ॥