प्रास्य॒ धारा᳚ अक्षर॒न्वृष्ण᳚ः सु॒तस्यौज᳚सा ।
दे॒वा{4} अनु᳚ प्र॒भूष᳚तः ॥
दे॒वा{4} अनु᳚ प्र॒भूष᳚तः ॥
पदपाठः (Word-by-word)
प्र । अ॒स्य॒ । धाराः᳚ । अ॒क्ष॒र॒न् । वृष्णः᳚ । सु॒तस्य᳚ । ओज᳚सा ।
दे॒वान् । अनु᳚ । प्र॒॑भूष᳚तः ॥
दे॒वान् । अनु᳚ । प्र॒॑भूष᳚तः ॥
सायणभाष्यम् (Sayana Commentary)
अस्य सोमस्य वृष्णोवर्षकस्य सुतस्याभिषुतस्य देवाननु प्रभूषतः प्रभवितुमिच्छतः ओजसा स्ववीर्येण धाराः प्राक्षरन् प्रकर्षेण क्षरन्ति ॥ १ ॥