श्रवणम्

9.29.6
एन्दो॒ पार्थि᳚वं र॒यिं दि॒व्यं प᳚वस्व॒ धार᳚या ।
द्यु॒मन्तं॒ शुष्म॒मा भ᳚र ॥
▶ पदपाठः (Word-by-word)
आ । इ॒न्दो॒ इति᳚ । पार्थि᳚वम् । र॒यिम् । दि॒व्यम् । प॒व॒स्व॒ । धार᳚या ।
द्यु॒॑मन्त᳚म् । शुष्म᳚म् । आ । भ॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो क्लिद्यमान सोम त्वं धारया आपवस्व स्वर्वतः क्षर । पार्थिवं दिव्यंच रयिं धनं द्युमन्तं दीप्तिमन्तं शुष्मं बलं चाभर आहरास्मभ्यं ॥ ६ ॥

प्रधाराइति षळृचं षष्ठं सूक्तं बिन्दुनाम्न आंगिरसस्यार्षं गायत्रं पवमानसोमदेवताकम् । प्रधाराबिन्दुरित्यनुक्रमणिका । गतोविनियोगः ।