श्रवणम्

9.29.5
रक्षा॒ सु नो॒ अर᳚रुषः स्व॒नात्स᳚मस्य॒ कस्य᳚ चित् ।
नि॒दो यत्र᳚ मुमु॒च्महे᳚ ॥
▶ पदपाठः (Word-by-word)
रक्ष᳚ । सु । नः॒ । अर᳚रुषः । स्व॒नात् । स॒म॒स्य॒ । कस्य᳚ । चि॒त् ।
नि॒दः । यत्र᳚ । मु॒मु॒च्महे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम नोस्मान् सु सुष्ठु रक्षा पालय । कस्मात् अररुषः अदातुः स्वनात् शब्दात् निंदारूपात् किमेकस्यादानशीलस्य न समस्य सर्वस्य योस्ति तस्य सर्वस्य कस्यचित् कंचन अमुंचन्नित्यर्थः । नकेवलमदातुः स्वनात् किंतर्हि कस्यचित् कस्यापि निदो निंदकात् रक्ष । यत्र मुमुच्म्हे यस्मिन् रक्षणेसति वयं मुक्ताभवेम तेन रक्षणेन रक्षयेति ॥ ५ ॥