विश्वा॒ वसू᳚नि सं॒जय॒न्पव᳚स्व सोम॒ धार᳚या ।
इ॒नु द्वेषां᳚सि स॒ध्र्य᳚क् ॥
इ॒नु द्वेषां᳚सि स॒ध्र्य᳚क् ॥
पदपाठः (Word-by-word)
विश्वा᳚ । वसू᳚नि । स॒म्॑जय᳚न् । पव᳚स्व । सो॒म॒ । धार᳚या ।
इ॒नु । द्वेषां᳚सि । स॒ध्र्य᳚क् ॥
इ॒नु । द्वेषां᳚सि । स॒ध्र्य᳚क् ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम विश्वा सर्वाणि वसूनि अस्मदर्थं संजयन् पवस्व क्षर । धारया द्वेषांसि द्वेष्याणि सर्वाणि सध्यक् सहैव इनु प्रेरय दूरदेशंप्रति ॥ ४ ॥