सप्तिं᳚ मृजन्ति वे॒धसो᳚ गृ॒णन्त᳚ः का॒रवो᳚ गि॒रा ।
ज्योति᳚र्जज्ञा॒नमु॒क्थ्य᳚म् ॥
ज्योति᳚र्जज्ञा॒नमु॒क्थ्य᳚म् ॥
पदपाठः (Word-by-word)
सप्ति᳚म् । मृ॒ज॒न्ति॒ । वे॒धसः᳚ । गृ॒णन्तः᳚ । का॒रवः᳚ । गि॒रा ।
ज्योतिः᳚ । ज॒ज्ञा॒नम् । उ॒क्थ्य᳚म् ॥
ज्योतिः᳚ । ज॒ज्ञा॒नम् । उ॒क्थ्य᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
सप्तिं अश्वस्थानीयं सर्पणस्वभावं वा सोमं मृजन्ति शोधयन्ति । के गृणन्तः स्तुवन्तः वेधसोविधातारः कारवः कर्मकर्तारः अध्वर्य्वादयो गिरा स्तुत्या साधनेन । कीदृशं सप्तिं ज्योतिर्दीप्यमानं सोमं जज्ञानं जायमानं प्रवृद्धमित्यर्थः । अथवा ज्योतिर्जायमानम् । अयंवैज्योतिर्यत्सोमइतिश्रुतेः । उक्थ्यं स्तुत्यं ॥ २ ॥