सु॒षहा᳚ सोम॒ तानि᳚ ते पुना॒नाय᳚ प्रभूवसो ।
वर्धा᳚ समु॒द्रमु॒क्थ्य᳚म् ॥
वर्धा᳚ समु॒द्रमु॒क्थ्य᳚म् ॥
पदपाठः (Word-by-word)
सु॒॑सहा᳚ । सो॒म॒ । तानि᳚ । ते॒ । पु॒ना॒नाय᳚ । प्र॒भु॒व॒सो॒ इति᳚ प्रभु॑वसो ।
वर्ध᳚ । स॒मु॒द्रम् । उ॒क्थ्य᳚म् ॥
वर्ध᳚ । स॒मु॒द्रम् । उ॒क्थ्य᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम प्रभुवसो प्रभूतधन पुनानाय पूयमानस्य ते तव तानि तेजांसि सुषहा शोभनानि भावुकानि । यस्मादेवं तस्मात् समुद्रं समुद्रसदृशं द्रोणकलशं उक्थ्यं स्तुत्यं तं वर्ध वर्धय प रसेन ॥ ३ ॥