श्रवणम्

9.35.1
आ नः᳚ पवस्व॒ धार᳚या॒ पव᳚मान र॒यिं पृ॒थुम् ।
यया॒ ज्योति᳚र्वि॒दासि᳚ नः ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । प॒व॒स्व॒ । धार᳚या । पव᳚मान । र॒यिम् । पृ॒थुम् ।
यया᳚ । ज्योतिः᳚ । वि॒दासि᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमानसोम त्वं धारया नोस्माकं आपवस्व सर्वतः क्षर । किं रयिं धनं पृथुं विस्तीर्णं यया धारया ज्योतिर्द्योतमानं यज्ञं स्वर्गवा विदासि लंभयसि नोस्माकं ॥ १ ॥