त्वया᳚ वी॒रेण᳚ वीरवो॒॑भि ष्या᳚म पृतन्य॒तः ।
क्षरा᳚ णो अ॒भि वार्य᳚म् ॥
क्षरा᳚ णो अ॒भि वार्य᳚म् ॥
पदपाठः (Word-by-word)
त्वया᳚ । वी॒रेण᳚ । वी॒र॒॑वः॒ । अ॒भि । स्या॒म॒ । पृ॒त॒न्य॒तः ।
क्षर᳚ । नः॒ । अ॒भि । वार्य᳚म् ॥
क्षर᳚ । नः॒ । अ॒भि । वार्य᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे वीरवो वीरवन् सोम वीरेण त्वया साधनेन पृतन्यतः संग्राममिच्छतः शत्रूनभिष्याम अभिभवेम अतोनोस्माकं वार्यं वरणीयं धनमभिक्षर अभि- गमयेत्यर्थः । अथवा वरणीयं सोमाख्यं धनं क्षर पवस्व ॥ ३ ॥