तं गी॒र्भिर्वा᳚चमीङ्ख॒यं पु᳚ना॒नं वा᳚सयामसि ।
सोमं॒ जन᳚स्य॒ गोप᳚तिम् ॥
सोमं॒ जन᳚स्य॒ गोप᳚तिम् ॥
पदपाठः (Word-by-word)
तम् । गीः॒॑भिः । वा॒च॒म्॑ई॒ङ्ख॒यम् । पु॒ना॒नम् । वा॒स॒या॒म॒सि॒ ।
सोम᳚म् । जन᳚स्य । गो॑प᳚तिम् ॥
सोम᳚म् । जन᳚स्य । गो॑प᳚तिम् ॥
सायणभाष्यम् (Sayana Commentary)
तं सोमं गीर्भिः स्तुतिभिः स्तौमीतिशेषः । किंच वाचमींखयं वाचःप्रेरयितारं पुनानं पूयमानं तं सोमं वासयामसि वासयामः श्रयणद्रव्यैः । कीदृशं सोमं जनस्य गोपतिं गवां पालकं यद्वैकमेववाक्यं उक्तविशेषणविशिष्टं सोमं स्तुतिभिर्वासयामइति । माधवस्तु-वाचमितिपृथक्पदं तिङन्तंकृत्वा वाक्यद्वयं चकार ॥ ५ ॥