विश्वो॒ यस्य᳚ व्र॒ते जनो᳚ दा॒धार॒ धर्म᳚ण॒स्पते᳚ः ।
पु॒ना॒नस्य᳚ प्र॒भूव᳚सोः ॥
पु॒ना॒नस्य᳚ प्र॒भूव᳚सोः ॥
पदपाठः (Word-by-word)
विश्वः᳚ । यस्य᳚ । व्र॒ते । जनः᳚ । दा॒धार᳚ । धर्म᳚णः । पतेः᳚ ।
पु॒ना॒नस्य᳚ । प्र॒भु॑व᳚सोः ॥
पु॒ना॒नस्य᳚ । प्र॒भु॑व᳚सोः ॥
सायणभाष्यम् (Sayana Commentary)
वश्वः सर्वोजनो मनुष्यो यजमानः यस्य सोमस्य व्रते कर्मणि दाधार धारयति मनइतिशेषः । कीदृशस्य यस्य धर्मणः कर्मणः पतेः पालकस्य पुनानस्य पूयमानस्य प्रभूवसोः प्रभूतधनस्य ॥ ६ ॥
असर्जीतिषळृचं द्वादशं सूक्तं ऋष्याद्याः पूर्ववत् । असर्जीत्यनुक्रान्तम् । गतोविनियोगः ।