इन्दो᳚ समुद्रमीङ्खय॒ पव᳚स्व विश्वमेजय ।
रा॒यो ध॒र्ता न॒ ओज᳚सा ॥
रा॒यो ध॒र्ता न॒ ओज᳚सा ॥
पदपाठः (Word-by-word)
इन्दो॒ इति᳚ । स॒मु॒द्र॒म्॑ई॒ङ्ख॒य॒ । पव᳚स्व । वि॒श्व॒म्॑ए॒ज॒य॒ ।
रा॒यः । ध॒र्ता । नः॒ । ओज᳚सा ॥
रा॒यः । ध॒र्ता । नः॒ । ओज᳚सा ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्दो सोम हे समुद्रमींखय समुद्रमित्युदकनाम ईखयतिर्गतिकर्मा उदकमेरक तथा हे विश्वमेजय विश्वस्य सर्वस्यास्मच्छत्रोः कंपयितः सोम त्वं ओजसा त्वदीयेन बलेन नोस्मभ्यं रायो धनस्य धर्ता धारकः पवस्व भवेत्यर्थः । अत्र यद्यप्युदकप्रेरणसर्वशत्रुकंपने संबोधनान्तर्गतत्वादुद्देश्यगते तथापि यजमानस्यापेक्षितेइति रायो धर्तृत्ववदाशास्ये अधिगन्तव्ये ॥ २ ॥