श्रवणम्

9.35.4
प्र वाज॒मिन्दु᳚रिष्यति॒ सिषा᳚सन्वाज॒सा ऋषि᳚ः ।
व्र॒ता वि᳚दा॒न आयु᳚धा ॥
▶ पदपाठः (Word-by-word)
प्र । वाज᳚म् । इन्दुः᳚ । इ॒ष्य॒ति॒ । सिसा᳚सन् । वा॒ज॒॑साः । ऋषिः᳚ ।
व्र॒ता । वि॒दा॒नः । आयु᳚धा ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमः वाजमन्नं प्रेष्यति प्रेरयति यजमानेभ्यः । किंकुर्वन् सिषासन् यजमानान् संभक्तुमिच्छन् ईदृशइन्दर्वाजसाः अन्नस्य दाता ऋषिः सर्वस्यद्रष्टा व्रता व्रतानि कर्माणि आयुधानि च विदानोजानन् ॥ ४ ॥