ए॒ष उ॒ स्य वृषा॒ रथो॑व्यो॒ वारे᳚भिरर्षति ।
गच्छ॒न्वाजं᳚ सह॒स्रिण᳚म् ॥
गच्छ॒न्वाजं᳚ सह॒स्रिण᳚म् ॥
पदपाठः (Word-by-word)
ए॒षः । ऊं॒ इति᳚ । स्यः । वृषा᳚ । रथः᳚ । अव्यः᳚ । वारे᳚भिः । अ॒र्ष॒ति॒ ।
गच्छ᳚न् । वाज᳚म् । स॒ह॒स्रिण᳚म् ॥
गच्छ᳚न् । वाज᳚म् । स॒ह॒स्रिण᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
स्यः सप्रसिद्धः एषोभिषुतः सोमोवृषा वर्षितारथोरंहणस्वभावः अव्योवारेभिः अवेर्वालैः दशापवित्रेणार्षति गच्छति कलशम् । वाजमन्नं सहस्रिणं सहस्रसंख्याकं यजमानाय प्रदातुं गच्छन् द्रोणकलशं प्रविशन्नर्षतीत्यर्थः उपूरणः ॥ १ ॥