श्रवणम्

9.38.6
ए॒ष स्य पी॒तये᳚ सु॒तो हरि᳚रर्षति धर्ण॒सिः ।
क्रन्द॒न्योनि᳚म॒भि प्रि॒यम् ॥
▶ पदपाठः (Word-by-word)
ए॒षः । स्यः । पी॒तये᳚ । सु॒तः । हरिः᳚ । अ॒र्ष॒ति॒ । ध॒र्ण॒सिः ।
क्रन्द᳚न् । योनि᳚म् । अ॒भि । प्रि॒यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषस्यः ससोमः पीतये पानाय सुतोभिषुतो हरिर्हरितवर्णो धर्णसिर्धारकः प्रियं स्वप्रियभूतं योनिंस्थानं द्रोणकलशं कंदन् शब्दयन् अभ्यर्षति गच्छति ॥ ६ ॥

आशुरर्षेति षळृचं पंचदशं सूक्तं आंगिरसस्य बृहन्मतेरार्षं गायत्रं पवमानसोमदेवताकम् । आशुरर्षबृहन्मतिरित्यनुक्रान्तम् । गतोविनियोगः ।